Thursday, May 19, 2011
श्रीविश्वनाथाष्टकं
गंगातरंगरमणीयजटाकलापं
गौरी निरंतरविभूषितवामभागम
नारायणप्रियमनंगमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम || १
वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम |
वामेन विग्रहवरेण कलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम || २
भूताधिपं भुजंगभूषणभूषितांगम
व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रं |
पाशांकुशा भयवरप्रद शूलपाणिम
वाराणसीपुरपतिं भज विश्वनाथम || ३
शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषित पञ्चबाणम |
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम || ४
पंचाननं दुरितमत्तमतंगजानां
नागान्तकं दनुजपुंगवपन्नगानाम |
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम || ५
तेजोमयं सगुणनिर्गुणमद्वितीय-
मानन्दकन्दमपराजितमप्रमेयम |
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम || ६
रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम |
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम || ७
आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मन: समाधौ |
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम || ८
वाराणसीपुरपते: स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्य: |
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम || ९
विश्वनाथाष्टकमिदं य: पठेश्चशिवसन्निधौ |
शिवलोकमवाप्नोति शिवेन सह मोदते || १०
|| इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं संपूर्णम||
Subscribe to:
Post Comments (Atom)
इस पावन प्रस्तुति के लिए कोटिशः आभार!
ReplyDeleteAnupama ji you are always welcome ..
ReplyDelete