Monday, December 5, 2011
असितकृतं शिवस्तोत्रम्
असितकृतं शिवस्तोत्रम्
असित उवाच:
जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च ।
योगीन्द्राणां च योगीन्द्र गुरुणां गुरवे नमः ॥ १
मृत्योर्मत्युस्वरुपेण मृत्युसंसारखण्डन ।
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥ २
कालरुपं कलयतां कालकालेश कारण ।
कालादतीत कालस्य कालकाल नमोऽस्तु ते ॥ ३
गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४
ब्रह्मस्वरुप ब्रह्मज्ञ ब्रह्मभावनतत्पर ।
ब्रह्मबीजस्वरुपेण ब्रह्मबीज नमोऽस्तु ते ॥ ५
इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।
दीनवत् साश्रुनेत्रश्च पुलकाञ्चितविग्रहः ॥ ६
असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
वर्षमेकं हविष्याशी शंकरस्य महात्मनः ॥ ७
स लभेद् वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।
भवेद् धनाढ्यो दुःखी च मूको भवति पण्डितः ॥ ८
अभार्यो लभते भार्या सुशीलां च पतिव्रताम् ।
इहलोके सुखं भुक्त्वा यात्यन्ते शिवसंनिधम् ॥ ९
॥इति श्रीब्रह्मवैवर्तपुराणे असितकृतं शिवस्तोत्रं सम्पूर्णम॥
Monday, June 27, 2011
* गौरीपतिशतनामस्तोत्रम् * June 27, 2011 at 8:12am
नमो रुद्राय नीलाय भीमाय परमात्मने । कपर्दिने सुरेशाय व्योमकेशाय वै नम: ।। १ ।।
वृषभध्वजाय सोमाय सोमनाथाय शम्भवे । दिगम्बराय भर्गाय उमाकान्ताय वै नम: ।। २ ।।
तपोमयाय भव्याय शिवश्रेष्ठाय विष्णवे । व्यालप्रियाय व्यालानां पतये नम: ।। ३ ।।
महीधराय व्याघ्राय पशुनां पतये नम: । पुरान्त्काय सिंहाय शार्दूलाय मखाय च ।। ४ ।।
मीनाय मीननाथाय सिद्धाय परमेष्ठिने । कामान्तकाय बुद्धाय बुद्धिनां पतये नम: ।। ५ ।।
कपोताय विशिष्टाय शिष्टाय सकलात्मने । वेदाय वेद्जीवाय वेदगुह्याय वै नम: ।। ६ ।।
दीर्घाय दीर्घरूपाय दीर्घार्थायाविनाशिने । नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नम: ।। ७ ।।
गजासुर महाकालायान्धकासुरभेदिने । नीललोहितशुक्लाय चण्डमुण्डप्रियाय च ।। ८ ।।
भक्तिप्रियाय देवाय ज्ञात्रे ज्ञानाव्ययाय च । महेशाय नमस्तुभ्यं महादेव हराय च ।। ९ ।।
त्रिनेत्राय त्रिवेदाय वेदांगाय नमो नम: । अर्थाय चार्थरूपाय परमार्थाय वै नम: ।। १० ।।
विश्वरूपाय विश्वाय विश्वनाथाय वै नम: । शंकराय च कालाय कालावयवरूपिणे ।। ११ ।।
अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नम: । श्मशानवासिने भूयो नमस्ते कृत्तिवाससे ।। १२ ।।
शशांकशेखारायेशायोग्रभूमिशयाय च । दुर्गाय दुर्गपाराय दुर्गावयवसाक्षीणे ।। १३ ।।
लिंगरूपाय लिंगाय लिंगानां पतये नम: । नम: प्रलयरूपाय प्रणवार्थाय वै नम: ।। १४ ।।
नमो नम: कारणकारणाय मृत्युंजयायात्मभवस्वरूपिणे ।
श्रीत्रयम्बकायासितकंठशर्व गौरीपते सकलमंगलहेतवे नम: ।। १५ ।।
|| इति श्री गौरीपति शत नाम स्तोत्रं सम्पूर्णम ||
Thursday, May 19, 2011
श्रीविश्वनाथाष्टकं
गंगातरंगरमणीयजटाकलापं
गौरी निरंतरविभूषितवामभागम
नारायणप्रियमनंगमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम || १
वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम |
वामेन विग्रहवरेण कलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम || २
भूताधिपं भुजंगभूषणभूषितांगम
व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रं |
पाशांकुशा भयवरप्रद शूलपाणिम
वाराणसीपुरपतिं भज विश्वनाथम || ३
शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषित पञ्चबाणम |
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम || ४
पंचाननं दुरितमत्तमतंगजानां
नागान्तकं दनुजपुंगवपन्नगानाम |
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम || ५
तेजोमयं सगुणनिर्गुणमद्वितीय-
मानन्दकन्दमपराजितमप्रमेयम |
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम || ६
रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम |
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम || ७
आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मन: समाधौ |
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम || ८
वाराणसीपुरपते: स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्य: |
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम || ९
विश्वनाथाष्टकमिदं य: पठेश्चशिवसन्निधौ |
शिवलोकमवाप्नोति शिवेन सह मोदते || १०
|| इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं संपूर्णम||
Sunday, May 8, 2011
श्रीशिवापराधक्षमापनस्तोत्रम
बाल्ये दु:खातिरेको मललुलितवपु: स्तन्यपाने पिपासा नो शक्त श्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति | नाना रोगादि दु:खादृदनपरवश: शंकरं न स्मरामि क्षन्तव्यो मेsपराध शिव शिव शिव भो श्रीमहादेव शम्भो || २ ||
प्रौढ़ोsहं यौवनस्थो विषयविषधरै: पंचाभिर्मर्मसंधौ दष्टो नष्टो विवेक: सुतधनयुवतीस्वादसौख्ये निष्णन्न: | शैवीचिंताविहीनं मम हृदयमहो मानगर्वाधिरूढं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ३ ||
वार्धक्ये चेन्द्रियाणाम विगतगतिमतिश्चाधिदैवादितापै: पापै रोगैर्वियोगैस्तवनवसितवपु: प्रौढीहीनं च दीनम | मिथ्यामोहाभिलाषेर्भ्रमति मम मनो धूर्जटेध्यानशून्यं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ४ ||
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रम्हमार्गे सुसारे | नास्था धर्मे विचार: श्रवणमननयो: किं निदिध्यासितव्यं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ५ ||
स्नात्वा प्रत्युषकाले स्नपनविधिविधौ नाह्यतं गांगतोयं पूजार्थं वा कदाचिद्वूहुतरगहनात खण्डबिल्वीदलानि | नानीता पद्ममाला सरसि विकसिता गन्धपुष्पे त्वदर्थं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ६ ||
दुग्धेर्मध्वाज्ययुक्तेर्दधीसितसहितै: स्नापितं नैव लिंगं नो लिप्तं चंदनाद्यै: कनकविरचितै: पूजितं न प्रसूनै: | धूपै: कर्पूर दीपेर्विविधरसयुतेर्नैव भक्ष्योपहारै: क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ७ ||
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्ष संख्येर्हुतवहवदने नार्पितं बीजमन्त्रै: | नो तप्तं गांगतीरे व्रतजपनियमै रूद्र जाप्येर्ना वेदै: क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ८ ||
स्थित्वा स्थाने सरोजे प्रणवमयमरूत्कुंडले सूक्ष्ममार्गे शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपे पराख्ये | लिंगज्ञे ब्रम्हवाक्ये सकलतनुगतं शंकरं ना स्मरामि क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ९ ||
नग्नो नि:संगशुद्धस्त्रिगुण विरहितो ध्वस्तमोहान्ध्कारो नासाग्रे न्यस्त दृष्टिर्विदितभवगुणों नैव दृष्ट: कदाचित | उन्मन्यावस्थया त्वां विगतकलिमलं शंकरं ना स्मरामि क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || १० ||
चंद्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे सर्पेर्भूषितकंठकर्णविवरे नेत्रोत्थवैश्वानरे | दन्तित्वक्कृतसुन्दराम्बरधरे तैलोक्यसारे हरे मोक्षार्थं कुरु चित्त वृत्ति मखिला मन्येस्तु किं कर्मभि: ||११ ||
किं वानेन धनेन वाजीकरिभी: प्राप्तेन राज्येन किं किं वा पुत्र कलत्र मित्र पशुभिर्देहेन गेहेन किम | ज्ञात्वैतत्क्षणभंगुरं सपदि रे त्याज्यं मनो दूरत: स्वात्मार्थं गुरुवाक्य्तो भज भज श्रीपार्वतीवल्लभं || १२ ||
आयुर्नश्यती पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गता: पुनर्न दिवसा: कालो जगदभक्षक: | लक्ष्मीस्तोयतरंगभंगचपला विद्युच्च्लं जीवितं तस्मान्माम शरणागतम शरणद त्वं रक्ष रक्षाधुना || १३ ||
विहितमविहितं वा सर्वमेतत क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो || १४ ||
Thursday, April 21, 2011
* बाणासुरकृतं शिवस्तोत्रं *
वन्दे सुराणाम सारं च सुरेशं नीललोहितं | योगीश्वरं योगबीजं योगीनां च गुरोर्गुरुम || १
ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम | तपसां फलदातारं दातारं सर्वसम्पदाम || २
तपोरूपं तपोबीजं तपोधनधनं वरम | वरं वरेण्यं वरदमीडयं सिद्धगणेरवरे: || ३
कारणं भुक्तिमुक्तिनां नरकार्ण वतारणम | अशुतोषम प्रसन्नास्यं करुणामयसागरम || ४
हिमचन्दनकुंदेंदुकुमुदाम्भोजसंनिभम | ब्रम्हज्योति: स्वरूपं च भक्तानुग्रहविग्रहम || ५
विषयाणाम विभेदेन बिभ्रन्तं बहुरूपकम | जलरूपंमग्निरूपमाकाशरूपमीश्वरम || ६
वायुरूपं चन्द्ररूपं सूर्यरूपं महत्प्रभुम | आत्मन: स्वपदं दातुं समर्थमवलीलया || ७
भक्तजीवनमीशं च भक्तानुग्रहकातरम | वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम || ८
अपरिछिन्नमीशानमहो वांगमनसो: परम | व्याघ्रचर्माम्बरधरं वृषभस्थं दिगंबरम |
त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम || ९
इत्युक्त्वा स्तवराजेन नित्यं बाण: सुसंयत: | प्रणमेच्छशंकरं भक्त्या दुर्वासाश्च मुनीश्वर: || १०
इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने | कथितं च महास्तोत्रं शुलिन: परमाद्भुतम || ११
इदं स्तोत्रं महापुण्यं पठेद भक्त्या च यो नर: | स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम || १२
अपुत्रो लभते पुत्रं वर्षमेकं श्रणोति य: | संयतश्च हविष्याशी प्रणम्य शंकरं गुरुम || १३
गलत्कुष्टि महाशूली वर्षमेकं श्रणोति य: | अवश्यं मुच्यते रोगाद व्यासवाक्यमिति श्रुतम || १४
कारागारेsपि बद्धो यो नैव प्राप्नोति निर्वृतिम | स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनाद ध्रुवम || १५
भ्रष्टराज्यों लभेद राज्यं भक्त्या मासं श्रणोति य: | मासं श्रुत्वा संयतश्च लभेद भ्रष्टधनो धनम || १६
यक्ष्मग्रस्तो वर्षमेकमास्तिको य: श्रणोति चेत | निश्चितं मुच्यते रोगाश्च शंकरस्य प्रसादत: || १७
य: श्रणोति सदा भक्त्या स्तवराजमिमं द्विज | तस्यासाध्यं त्रिभुवने नास्ति किंचिच्च शौनक || १८
कदाचिद बन्धुविच्छेदो न भवेत् तस्य भारते | अचलं परमैश्वर्यम लभते नात्र संशय: ||
सुसंयतोsतिभक्त्या च मासमेकं श्रणोति य: | अभार्यो लभते भार्यां सुविनीतां सतीं वराम || २०
महामूर्खश्च दुर्मेधो मासमेकं श्रणोति य: | बुद्धिं विद्यां च लभते गुरूपदेशमात्रत: || २१
कर्म दु:खी दरिद्रश्च मासं भक्त्या श्रणोति य: | ध्रुवं वित्तं भवेत् तस्य शंकरस्य प्रसादत: || २२
इहलोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम | नानाप्रकारधर्मं च यात्यन्ते शंकरालयम || २३
पार्षदप्रवरो भूत्वा सेवते तत्र शंकरम | य: श्रणोति त्रिसंध्यं च नित्यं स्तोत्रमनुत्तमम || २४
// इति श्री ब्रम्हवैवर्तपुराणे बाणासुरकृतं शिवस्तोत्रं संपूर्णम //
Monday, January 10, 2011
शिवाष्टकम्
योगाय योगनमिताय नम: शिवाय || ५
Sunday, January 9, 2011
महाकाल स्तुति:
* प्रदोषस्तोत्रम् *
जय सर्वगुणातीत जय सर्ववरप्रद । जय नित्यनिराधार जय विश्वम्भराव्यय ।। २ ।।
जय विश्वैकवन्द्येश जय नागेन्द्रभूषण । जय गौरीपते शम्भो जय चन्द्रार्धशेखर ।। ३ ।।
जय कोट्यर्कसंकाश जयानन्तगुणाश्रय । जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ।। ४ ।।
जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन । जय दुस्तरसंसारसागरोत्तारण प्रभो ।। ५ ।।
प्रसीद मे महादेव संसारार्तस्य खिद्यत: । सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ।। ६ ।।
महादारिद्र्यमग्नस्य महापापहतस्य च । महाशोकनिविष्टस्य महारोगातुरस्य च ।। ७ ।।
ऋणभारपरितस्य दह्यमानस्य कर्मभि: । ग्रहै: प्रपीड्यमानस्य प्रसीद मम शंकर ।। ८ ।।
दरिद्र: प्रार्थयेद् देवं प्रदोषे गिरिजपतिम् । अर्थाढ्यो वाsथ राजा वा प्रार्थयेद् देवमीश्वरम् ।। ९ ।।
दीर्घमायु: सदारोग्यं कोषवृद्धिर्बलोन्नति: | ममास्तु नित्यमानन्द: प्रसादात्तव शंकर ।। १० ।।
शत्रव: संक्षयं यान्तु प्रसीदन्तु मम प्रजा: | नश्यन्तु दस्यवो राष्ट्रे जना: सन्तु निरापद: ।। ११ ।।
दुर्भिक्षमारीसंतापा: शमं यान्तु महितले | सर्वस्यसमृद्धिश्च भूयात् सुखमया दिश: ।। १२ ।।
एवमाराधयेद् देवं पूजान्ते गिरिजापतिम् | ब्राह्मणान भोजयेत् पश्चाद् दक्षिनाभिश्च पूजयेत् ।। १३ ।।
सर्वपापक्षयकरी सर्वरोगनिवारिणी | शिवपूजा मयाख्याता सर्वाभीष्टफलप्रदा ।। १४ ।।
|| इति प्रदोषस्तोत्रं सम्पूर्णं ||
वन्दे शिवम् शंकरम * श्रीशिवस्तुति: *
वन्दे देवमुमापतिम सुरगुरुं वन्दे जगतकारणं, वन्दे पन्नगभूषणं मृगधरं वन्दे पशुनांपतिं |
वन्दे सूर्यशशांकवंदीनयनं वन्दे मुकुंदप्रियम, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || १
वन्दे सर्वजगदविहारमतुलं वन्देsन्धक्ध्वन्सिनं, वन्दे देवशिखामणिमशशिनिभं वन्दे हरेर्वल्लभं |
वन्दे नागभुजंगभूषणधरं वन्दे शिवम् चिन्मयं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || २
वन्दे दिव्यमचिन्तयमद्वूयमयं वन्देsकदर्पापहं, वन्दे निर्मलमादीमूलमनिषम वन्दे मखध्वंसिनं |
वन्दे सत्यमनन्तमाद्यमभयं वन्देsतिशान्ताकृतिम, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ३
वन्दे भूरथम्म्बुजाक्षविशिखं वन्दे श्रुतित्रोटकं, वन्दे शैलशरासनं फणिगुणं वन्देsधितुणीरकम |
वन्दे पंकजसारथिम पुरहरं वन्दे महाभैरवं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ४
वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं, वन्दे व्योमगतं जटासुमुकुटम चंद्रार्धगंगाधरं |
वन्दे भस्मकृतत्रिपुण्डजटिलं वन्देष्टमूर्त्यात्मकं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ५
वन्दे कालहरं हरं विषधरं वन्दे मृडम धूर्जटिम, वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम |
वन्दे विप्रसुरार्चितांगघ्रिकमलं वन्दे भागाक्षापहं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ६
वन्दे मंगलराजताद्रीनिलयं वन्दे सुराधीश्वरं, वन्दे शंकरमप्रमेयमतुलं वन्दे यमद्वेशिणम |
वन्दे कुंडलीराजकुंडलधरं वन्दे सहस्त्राननं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ७
वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरुपेक्षणं, वन्दे भूतगणेशमव्ययमहं वन्देsर्थराज्यप्रदम |
वन्दे सुन्दरसौरभेयगमनं वन्दे त्रिशुलायुधं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ८
वन्दे सूक्ष्ममनन्तमाद्यमभयं वन्देsन्ध्कारापहं, वन्दे फूलननंदीभृंगीविनतं वन्दे सुपर्णावृतं |
वन्दे शैलसुतार्धभागवपुषम वन्देsभयं त्रयम्बकं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ९
वन्दे पावनमम्बरात्मविभवं वन्दे महेंद्रेश्वरम, वन्दे भक्तजनाश्रयामरतरुं वन्दे नाताभीष्टदम |
वन्दे जह्नुसुताम्बिकेशमनिशं वन्दे गणाधीशश्वरं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || १०
*शिवमानसपूजा स्तोत्र *
*शिवमानसपूजा*
रत्ने कल्पित मानसं हिमजलै स्नानं च दिव्याम्बरं,
नानारत्न विभूषितम मृगमदा मोदान्कितं चन्दनं |
जातीचम्पक बिल्वपत्ररचितं पुष्पं च धूपं तथा,
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम ॥ १ ॥
:: हे दयानिधे ! हे पशुपते ! हे देव ! यह रत्ननिर्मित सिंहासन, शीतल जल से स्नान, नाना रत्नावलिविभूषित दिव्य वस्त्र, कस्तूरिकागन्धसमन्वित चन्दन, जूही, चम्पा और बिल्वपत्रसे रचित पुष्पाञ्जलि तथा धूप और दीप यह सब मानसिक [पूजोपहार] ग्रहण कीजिये॥ १ ॥
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसम,
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं,
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥
:: मैंने नवीन रत्नखण्डोंसे खचित सुवर्णपात्र में घृतयुक्त खीर, दूध और दधिसहित पांच प्रकार का व्यंजन, कदलीफल, शरबत, अनेकों शाक, कपूरसे सुवासित और स्वच्छ किया हुआ मीठा जल तथा ताम्बूल-- ये सब मनके द्वारा ही बनाकर प्रस्तुत किये हैं; प्रभो ! कृपया इन्हें स्वीकार कीजिये ॥ २ ॥
छत्रं चामरयोर्युगम व्यजनकं चादर्शकं निर्मलं,
वीणाभेरीमृदंगका हलकला गीतं च नृत्यं तथा |
साष्टांगं प्रणति: स्तुतिर्बहुविधा ह्योतत्समस्तम मया,
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥
:: छत्र, दो चँवर, पंखा, निर्मल दर्पण, वीणा, भेरी, मृदंग, दुन्दुभी के वाद्य, गान और नृत्य, साष्टांग प्रणाम, नानाविधि स्तुति -- ये सब मैं संकल्पसे ही आपको समर्पण करता हूँ; प्रभो ! मेरी यह पूजा ग्रहण कीजिये ॥ ३ ॥
आत्मा त्वं गिरिजा मति: सहचरा: प्राण: शरीरगृहं,
पूजा ते विषयोपभोगरचना निद्रा समाधिस्तिथि: |
संचार: पदयो प्रदक्षिणविधि स्तोत्राणि सर्वा गिरो,
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम ॥ ४ ॥
:: हे शम्भो ! मेरी आत्मा तुम हो, बुद्धि पार्वतीजी हैं, प्राण आपके गण हैं, शरीर आपका मन्दिर है, सम्पूर्ण विषयभोगकी रचना आपकी पूजा है, निद्रा समाधि है, मेरा चलना-फिरना आपकी परिक्रमा है तथा सम्पूर्ण शब्द आपके स्तोत्र हैं; इस प्रकार मैं जो-जो कार्य करता हूँ, वह सब आपकी आराधना ही है ॥ ४ ॥
करचरणकृतंवा कायजंकर्मजंवा श्रवणनयनजंवा मानसं वापराधम,
विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ ५ ॥
:: हाथोंसे, पैरोंसे, वाणीसे, शरीरसे, कर्मसे, कर्णोंसे, नेत्रोंसे अथवा मनसे भी जो अपराध किये हों, वे विहित हों अथवा अविहित, उन सबको हे करुणासागर महादेव शम्भो ! आप क्षमा कीजिये। आपकी जय हो, जय हो ॥ ५ ॥
॥ इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा सम्पूर्णा ॥
॥ इस प्रकार श्रीमच्छङ्कराचार्यविरचित शिवमानसपूजा सम्पूर्ण हुई ॥
Monday, January 3, 2011
वेदसारशिवस्तव: (श्रीमत शंकराचार्यकृत)
पशुनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिम वसानं वरेण्यम |
जटाजूटमध्ये स्फुरद गांगवारिं महादेवमेकं स्मरारी स्मरारिम || १
महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभुत्यंगभुषम |
विरिपाक्षमिन्दूर्कवह्नीत्रिनेत्रं सदानंदमीडे प्रभुं पंचवक्त्रं || २
गिरीशं गणेशं गले नीलवर्णं गवेंद्राधिरूडम गणातीतरूपम |
भवं भास्वरं भस्मना भूषितांगम भवानीकलत्रं भजे पंचवक्त्रम || ३
शिवाकान्त शम्भो शशांकार्धमौले महेशान शूलिन जटाजूटधारिन |
त्वमेको जगदव्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप || ४
परात्मानमेकं जगदबीजमाद्यं निरीहं निराकारमोंकार वेद्यम |
यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वं || ५
न भूमिर्न चापो न वह्निर्न वायु र्न चाकाश आस्ते न तन्द्रा न निद्रा |
न ग्रीष्मो न शीतो न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्ती तमीडे || ६
अजं शाश्वतं कारणं कारणानां शिवम् केवलं भासकं भासकानाम |
तुरीयं तम:पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम || ७
नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानंदमूर्ते |
नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य || ८
प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र |
शिवाकान्त शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य: || ९
शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन |
काशीपते करुणया जगदेतदेक- स्त्वं हंसी पासि विदधासि महेश्वरोsसि || १०
त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगनमृड विश्वनाथ |
त्वय्येव गच्छति लयं जगदेतदीश लिंगात्मकं हर चराचर विश्वरूपिन || ११
इति श्रीमत शंकराचार्यकृतो वेदसारशिवस्तव: संपूर्ण: ||