Wednesday, February 1, 2012

मूर्त्यष्टकस्तोत्रम् ..


मूर्त्यष्टकस्तोत्रम्

भार्गव उवाच

त्वं भाभिराभिरभिभूय तमस्समस्त-
मस्तं नयस्यभिमतानि निशाचराणाम् ।
देदीप्यसे दिवमणे गगने हिताय
लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥१

लोकेऽतिवेलमतिवेलमहामहोभि-
र्निर्भासि कौ च गगनेऽखिललोकनेत्रः ।
विद्राविताखिलतमास्सुतमो हिमांशो
पीयूषपूरपरिपूरित तन्नमस्ते ॥ २

त्वं पावने पथि सदा गतिरस्युपास्यः
कस्त्वां विना भुवनजीवन जीवतीह ।
स्तब्धप्रभञ्जनविवर्धितसर्वजन्तो
संतोषिताहिकुल सर्वग वै नमस्ते ॥ ३

विश्वैकपावक नतावक पावकैक-
शक्ते ऋते मृतवतामृतदिव्यकार्यम् ।
प्राणिष्यदो जगदहो जगदन्तरात्मं-
स्त्वं पावकः प्रतिपदं शमदो नमस्ते ॥ ४

पानीयरुप परमेश जगत्पवित्र
चित्रातिचित्रसुचरित्रकरोऽसि नूनम् ।
विश्वं पवित्रममलं किल विश्वनाथ
पानीयगाहनत एतदतो नतोऽस्मि ॥ ५

आकाशरुप बहिरन्तरुतावकाश-
दानाद् विकस्वरमिहेश्वर विश्वमेतत् ।
त्वत्तस्सदा सदय संश्वसिति स्वभावात्
संकोचमेति भवतोऽस्मि नतस्ततस्त्वाम् ॥ ६

विश्वम्भरात्मक बिभर्षि विभोऽत्र विश्वं
को विश्वनाथ भवतोऽन्यतमस्तमोऽरिः ।
स त्वं विनाशय तमो मम चाहिभूष
स्तव्यात् परः परपरं प्रणतस्ततस्त्वाम् ॥ ७

आत्मस्वरुप तव रुपपरम्पराभि-
राभिस्ततं हर चराचररुपमेतत् ।
सर्वान्तरात्मनिलय प्रतिरुपरुप
नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते ॥ ८

इत्यष्टमूर्तिभिरिमाभिरबन्धवन्धो
युक्तः करोषि खलु विश्वजनीनमूर्ते ।
एतत्ततं सुविततं प्रणतप्रणीत
सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ॥ ९

॥ इति श्रीशिवपुराणे रुद्रसंहितायां मूर्त्यष्टकस्तोत्रं सम्पूर्णम् ॥
~~ * ~~

No comments:

Post a Comment