Wednesday, February 22, 2012

उमामहेश्वरस्तोत्रम










नम: शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुरार्धराभ्यां ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ १    
 
नम: शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्यां ।
नारायेणाsर्चितपादुकाभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ २   
 
नम: शिवाभ्यां वृषवाहनभ्यां
विरञ्चिविष्ण्विन्द्रवन्द्रसुपूजिताभ्यां ।
विभूतिपाटीरविलेपनाभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ३
 
नम: शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्यां ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ४
 
नम: शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम्
प्रपंचसृष्टिस्थितिसंह्यतिभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ५
 
नम: शिवाभ्यामतिसुंदराभ्यां-
मत्यन्तमासक्तहृदम्बुजाभ्यां ।
अशेषलोकैकहितङ्कराभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ६
 
नम: शिवाभ्यां कलिनाशानाभ्यां
कङ्कालकल्याणवपुर्धराभ्यां ।
कैलासशैलस्थितदेवताभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ७
 
नम: शिवाभ्यामशुभापहाभ्या-
मशेषलोकैकविशेषिताभ्याम । 
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ८
 
नम: शिवाभ्यां रथवाहनाभ्यां
रविन्दुवैश्वानरलोचनाभ्याम ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ ९
 
नम: शिवाभ्यां जटिलन्धराभ्यां
ज़रामृतिभ्यां च विवर्जिताभ्याम ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ १०
 
नम: शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृदभ्याम ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ ११
 
नम: शिवाभ्यां पशुपालकाभ्यां
जगद्त्रयीरक्षणबद्धहृद्भ्याम ।
समस्तदेवासुरपूजिताभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ १२
 
स्तोत्रं त्रिसंध्यं शिवपार्वतीयं
भक्त्या पठेद द्वादशकं नरो य: ।
स सर्वसौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवलोकमेति ॥ १३

॥ इति श्रीमतशंकराचार्यविरचितमुमामहेश्वर स्तोत्रं सम्पूर्णम ॥                       

   

1 comment:

  1. नमो नम: शंकरपार्वतीभ्याम..............

    ReplyDelete