निर्वाणाष्टकम / आत्माष्टकम
श्री आदिशंकराचार्यकृत निर्वाणाष्टकम / आत्माष्टकम
मनोबुद्धयहंकार चित्तानि नाहं, न च
श्रोत्रजिव्हे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः,
चिदानन्दरूपः शिवोहं शिवोहम् ॥ १ ॥
न वै प्राणसंज्ञा न वै पंचवायुः, न वा सप्तधातुर्न वा पंचकोषः।
न वाक्पाणि पादौ न चोपस्थ-पायुः चिदानन्दरूपः शिवोहं शिवोऽहम् ॥ २ ॥
न मे रागद्वेषौ, न मे लोभमोहौ, मदो नैव मे नैव मात्सर्यभावः।
न धर्मों, न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोहं शिवोऽहम् ॥ ३ ॥
न पुण्यं न पापं न सौख्यं न दुःखं, न मंत्रो न तीर्थो न वेदा न यज्ञाः।
अहं भोजनम् नैव भोज्यं न भोक्ता, चिदानन्दरूपः शिवोहं शिवोऽहम् ॥ ४ ॥
न मृत्युर्न शंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म:।
न बन्धुर्न मित्रं गुरुनैव शिष्यः चिदानन्दरूपः शिवोहं शिवोऽहम् ॥ ५ ॥
अहं निर्विकल्पो निराकार-रूपो, विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।
न चासंगतं नैव मुक्तिर्न बन्धः चिदानन्दरूपः शिवोहं शिवोऽहम् ॥ ६ ॥
"शिवोहं शिवोहम्" कृपया इसे " शिवोऽहं शिवोऽहम्" लिखें
ReplyDeleteआपके सुझाव हेतु धन्यवाद !
Delete