पशुपतिस्तोत्रम्
स पातु वो यस्य जटाकलापे
स्थितः शशाङ्कः स्फुटहारगौरः ।
नीलोत्पलानामिव नालपुञ्जे
निद्रायमाणः शरदीव हंसः ॥ १ ॥
जगत्सिसृक्षाप्रलयक्रियाविधौ
प्रयत्नमुन्मेषनिमेषविभ्रमम् ।
वदन्ति यस्येक्षणलोलपक्ष्मणां
पराय तस्मै परमेष्ठिने नमः ॥ २ ॥
व्योम्नीव नीरदभरः सरसीव वीचि-
व्यूहः सहस्त्रमहसीव सुधांशुधाम ।
यस्मिन्नदं जगदुदेति च लीयते च
तच्छाम्भवं भवतु वैभवमृद्धये वः ॥ ३ ॥
यः कन्दुकैरिव पुरन्दरपद्मसद्म-
पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः ।
खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या-
कान्तः कृतान्तदलनो गलयत्वघं वः ॥ ४ ॥
दिश्यात् स शीतकिरणाभरणः शिवं वो
यस्योत्तमाङ्गभुवि विस्फुरदुर्मिपक्षा ।
हंसीव निर्मलशशाङ्ककलामृणाल-
कन्दार्थिनी सुरसरिन्नभतः पपात ॥ ५ ॥
॥ इति पशुपतिस्तोत्रं सम्पूर्णम् ॥
No comments:
Post a Comment