Monday, December 5, 2011

असितकृतं शिवस्तोत्रम्



असितकृतं शिवस्तोत्रम्


असित उवाच:


जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च ।
योगीन्द्राणां च योगीन्द्र गुरुणां गुरवे नमः ॥ १

मृत्योर्मत्युस्वरुपेण मृत्युसंसारखण्डन ।
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥ २

कालरुपं कलयतां कालकालेश कारण ।
कालादतीत कालस्य कालकाल नमोऽस्तु ते ॥ ३

गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४

ब्रह्मस्वरुप ब्रह्मज्ञ ब्रह्मभावनतत्पर ।
ब्रह्मबीजस्वरुपेण ब्रह्मबीज नमोऽस्तु ते ॥ ५

इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।
दीनवत् साश्रुनेत्रश्च पुलकाञ्चितविग्रहः ॥ ६

असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
वर्षमेकं हविष्याशी शंकरस्य महात्मनः ॥ ७

स लभेद् वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।
भवेद् धनाढ्यो दुःखी च मूको भवति पण्डितः ॥ ८

अभार्यो लभते भार्या सुशीलां च पतिव्रताम् ।
इहलोके सुखं भुक्त्वा यात्यन्ते शिवसंनिधम् ॥ ९


॥इति श्रीब्रह्मवैवर्तपुराणे असितकृतं शिवस्तोत्रं सम्पूर्णम॥