Sunday, August 11, 2013

बिल्वाष्टकम्


'बिल्वाष्टकम्'

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ।
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥ १ ॥

त्रिशाखैर्बिल्वपत्रैश्च ह्याच्छिद्रैः कोमलैः शुभैः ।
शिवपूजां करिष्यामि बिल्वपत्रं शिवार्पणम् ॥ २ ॥


अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्धयन्ति सर्वपापेभ्यो बिल्वपत्रं शिवार्पणम् ॥ ३ ॥


 शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् ।
सोमयज्ञमहापुण्यं बिल्वपत्रं शिवार्पणम् ॥ ४ ॥


दन्तिकोटिसहस्त्राणि वाजपेयशतानि च ।
कोटिकन्यामहादानं बिल्वपत्रं शिवार्पणम् ॥ ५ ॥


लक्ष्म्या स्तनत उत्पन्नं महादेवस्य च प्रियम् ।
बिल्ववृक्षं प्रयच्छामि बिल्वपत्रं शिवार्पणम् ॥ ६ ॥


दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं बिल्वपत्रं शिवार्पणम् ॥ ७ ॥


मूलतो ब्रह्मरुपाय मध्यतो विष्णुरुपिणे ।
अग्रतः शिवरुपाय बिल्वपत्रं शिवार्पणम् ॥ ८ ॥


बिल्वाष्टमिदं पुण्यं यः पठेच्छिवसन्निधो ।
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ ९ ॥

 
॥ इति बिल्वाष्टकं सम्पूर्णम् ॥ 

Photo: https://www.facebook.com/pages/Pashupati-Nath-Mandir-Mandsaur/170045343148558

No comments:

Post a Comment